Class 6 Sanskrit Chapter 8 

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।

न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ।।।।


पुस्तके पठित: पाठः जीवने नैव साधित: ।

किं भवेत् तेन पाठेन जीवने यो न सार्थक: ।।।।


प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति मानवाः।

तस्मात् प्रियं हि वक्तव्यं वचने का दरिद्रता ।।।।


गच्छन् पिपीलको याति योजनानां शतान्यपि।

अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति ।।।


काक: कृष्ण: पिकः कृष्णः को भेदः पिककाकयोः।

वसन्तसमये प्राप्ते काक: काक: पिकः पिकः।।।।



Question Answer

प्रश्न 3. श्लोकांशान् योजयत-

तस्मात् प्रियं हि वक्तव्यंवचने का दरिद्रता।
गच्छन् पिपीलको यातियोजनानां शतान्यपि।
प्रियवाक्यप्रदानेनसर्वे तुष्यन्ति जन्तव:।
किं भवेत् तेन पाठेनजीवने यो न सार्थक:।
काक: कृष्ण: पिकः कृष्ण:को भेद: पिककाकयो:।

प्रश्न 3.
प्रश्नानाम् उत्तराणि लिखत- 

 सर्वे जन्तवः केन तुष्यन्ति?    सर्वे जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति।
पिककाकयोः भेदः कदा भवति?    वसन्तसमये पिककाकयोः भेदः भवति।
 
: गच्छन् योजनानां शतान्यपि याति?  पिपीलक : गच्छन् योजनानां शतान्यपि याति।
 अस्माभिः किं वक्तव्यम्?     अस्माभिः प्रियं वक्तव्यम्।


प्रश्न 4.
उचितकथनानां समक्षम् ‘आम्’ अनुचितकथनानां समक्षं-‘न’ इति लिखत

 काक: कृष्णः न भवति।    न;

अस्माभिः प्रियं वक्तव्यम्।   आम्;
 वसन्तसमये पिककाकयोः भेदः स्पष्टः भवति।   
आम्;
 वैनतेयः पशुः अस्ति।   
न;
 वचने दरिद्रता न कर्त्तव्या। 
आम्;

श्न 5.
मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत


 वचने  - कथने;
 वैनतेयः - 
गरुड़ः;
 पुस्तके - 
ग्रन्थे;
 उद्यमेन - 
परिश्रमेण;
 पिकः - 
कोकिल:;

विलोमपदानि योजयत- 

सार्थकः – निरर्थकः;
कृष्ण: – श्वेत;;
अनुक्तम् – उक्तम्।;
गच्छति – आगच्छति;
जागृतस्य – सुप्तस्य;


కామెంట్‌లు

ఈ బ్లాగ్ నుండి ప్రసిద్ధ పోస్ట్‌లు

జననీ శివకామిని telugu song lyrics janani shiva kamini

telavarithe evare evere song lyrics in telugu film premam తెలవారితె కనురెప్పల

Keeravaani song lyrics film by Anveshana